|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.95. अध्यायः 095
Mahabharata - Sabha Parva - Chapter Topics
धृतराष्ट्रानुज्ञया सभ्रातृकस्य युधिष्ठिरस्य इन्द्रप्रस्थगमनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
युधिष्ठर उवाच॥
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः।
नित्यं हि स्थातुमिच्छामस्तव भारत शासने॥ 2-95-1(15169)
धृतराष्ट्र उवाच॥ 2-95-2x(1689)
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत।
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत॥ 2-95-2(15170)
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्।
मया निगदितं सर्वं पथ्यं निःश्रेयसं परम्॥ 2-95-3(15171)
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर।
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता॥ 2-95-4(15172)
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत।
नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते॥ 2-95-5(15173)
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्।
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः॥ 2-95-6(15174)
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाम्॥ 2-95-7(15175)
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः।
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः नराधमाः। 2-95-8(15176)
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः।
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपुरुषाः॥ 2-95-9(15177)
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः॥ 2-95-10(15178)
असम्भिन्नार्यमर्यादाः साधवः प्रियदर्शनाः।
तथा चरित्तंमार्येण त्वयाऽस्मिन्सत्समागमे॥ 2-95-11(15179)
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः।
मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया॥ 2-95-12(15180)
उपस्थितं वृद्धमन्धं पितरं पश्य भारत।
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्॥ 2-95-13(15181)
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्।
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता॥ 2-95-14(15182)
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः।
त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः॥ 2-95-15(15183)
शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः।
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश।
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयताम मनः॥ 2-95-16(15184)
वैशम्पायन उवाच॥ 2-95-17x(1690)
इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः।
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह॥ 2-95-17(15185)
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया।
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्॥ ॥ 2-95-18(15186)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चनवतितमोऽध्यायः॥95 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|